|
|
 |
 |
|
|
१२ शान्तिपर्व.jpg)
॥ श्रीः ॥
12.27. अध्यायः 027
Mahabharata - Shanti Parva - Chapter Topics
व्यासेन युधिष्ठिरंप्रत्यश्मजनकसंवादानुवादपूर्वकं क्षात्रधर्मविधानम्॥ 1॥

Mahabharata - Shanti Parva - Chapter Text
वैशम्पायन उवाच। 12-27-0x(5379)(65684)
ज्ञातिशोकाभितप्तस्य प्राणानिष्टांस्त्यजिष्यतः।
ज्येष्ठस्य पाण्डुपुत्रस्य व्यासः शोकमपानुदत्॥ 12-27-1(65685)
व्यास उवाच। 12-27-2x(5380)
अत्राप्युदाहरन्तीमभितिहासं पुरातनम्।
अश्मगीतं नरव्याघ्र तन्निबोध युधिष्ठिर॥ 12-27-2(65686)
अश्मानं ब्राह्मणं प्राज्ञं वैदेहो जनको नृपः।
संशयं परिपप्रच्छ दुःखशोकसमन्वितः॥ 12-27-3(65687)
जनक उवाच। 12-27-4x(5381)
आगमे यदि वाऽपाये ज्ञातीनां द्रविणस्य च।
नरेण प्रतिपत्तव्यं कल्याणं कथमिच्छता॥ 12-27-4(65688)
अश्मोवाच। 12-27-5x(5382)
उत्पन्नमिममात्मानं नरस्यानन्तरं ततः।
तानितान्यनुवर्तन्ते दुःखानि च सुखानि च॥ 12-27-5(65689)
तेषामन्यतरापत्तौ यद्यदेवोपसेवते।
तदस्य चेतनामाशु हरत्यभ्रमिवानिलः॥ 12-27-6(65690)
अभिजातोऽस्मि सिद्धोऽस्मि नास्मि केवलमानुषः।
इत्येभिर्हेतुभिस्तस्य त्रिभिश्चित्तं प्रसिच्यते॥ 12-27-7(65691)
संप्रसक्तमना भोगान्विसृज्य पितृसंचितान्।
परिक्षीणः परस्वानामादानं साधु मन्यते॥ 12-27-8(65692)
तमतिक्रान्तमर्यादमाददानमसांप्रतम्।
प्रतिषेधन्ति राजानो लुब्धा मृगमिवेषुभिः॥ 12-27-9(65693)
ये च विंशतिवर्षा वा त्रिंशद्वर्षाश्च मानवाः।
परेण ते वर्षशतान्न भविष्यन्ति पार्थिव॥ 12-27-10(65694)
तेषां परमदुःखानां बुद्ध्या भैषज्यमाचरेत्।
सर्वप्राणभृतां वृत्तं प्रेक्षमाणस्ततस्ततः॥ 12-27-11(65695)
मानसानां पुनर्योनिर्दुःखानां चित्तविभ्रमः।
अनिष्टोपनिपातो वा तृतीयं नोपपद्यते॥ 12-27-12(65696)
एवमेतानि दुःखानि तानि तानीह मानवम्।
विविधान्युपवर्तन्ते तथा संस्पर्शजान्यपि॥ 12-27-13(65697)
जरामृत्यू हि भूतानां खादितारौ वृकाविव।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि॥ 12-27-14(65698)
न कश्चिज्जात्वतिक्रामेज्जरामृत्यू हि मानवः।
अपि सागरपर्यन्तां विजित्येमां वसुंधराम्॥ 12-27-15(65699)
सुखं वा यदि वा दुःखं भूतानां पर्युपस्थितम्।
प्राप्तव्यमवशैः सर्वं परिहारो न विद्यते॥ 12-27-16(65700)
पूर्वे वयसि मध्ये वाऽप्युत्तरे वा नराधिप।
अवर्जनीयास्तेऽर्था वै काङ्क्षिता ये ततोऽन्यथा॥ 12-27-17(65701)
अप्रियैः सह संयोगो विप्रयोगश्च सुप्रियैः।
अर्थानर्थौ सुखं दुःखं विधानमनुवर्तते॥ 12-27-18(65702)
प्रादुर्भावश्च भूतानां देहत्यागस्तथैव च।
प्राप्तिव्यायामयोगश्च सर्वमेतत्प्रतिष्ठितम्॥ 12-27-19(65703)
गन्धवर्णरसस्पर्शा निवर्तन्ते स्वभावतः।
तथैव सुखदुःखानि विधानमनुवर्तते॥ 12-27-20(65704)
आसनं शयनं यानमुत्थानं पानभोजनम्।
नियतं सर्वभूतानां कालेनैव भवत्युत॥ 12-27-21(65705)
वैद्याश्चाप्यातुराः सन्ति बलवन्तश्च दुर्बलाः।
स्त्रीमन्तश्चापरे षण्ढा विचित्रः कालपर्ययः॥ 12-27-22(65706)
कुले जन्म तथा वीर्यमारोग्यं रूपमेव च।
सौभाग्यमुपभोगश्च भवितव्येन लभ्यते॥ 12-27-23(65707)
सन्ति पुत्राः सुबहवो दरिद्राणामनिच्छताम्।
नास्ति पुत्रः समृद्धानां विचित्रं विधिचेष्टितम्॥ 12-27-24(65708)
व्याधिरग्निर्जलं शस्त्रं बुभुक्षाश्चापदो विषम।
ज्वरश्च मरणं जन्तोरुच्चाच्च पतनं तथा॥ 12-27-25(65709)
निर्याणे यस्य यद्दिष्टं तेन गच्छति सेतुना।
दृश्यते नाप्यतिक्रामन्न निष्क्रान्तोऽथवा पुनः।
दृश्यते चाप्यतिक्रामन्न निग्राह्योऽथवा पुनः॥ 12-27-26(65710)
दृश्यते हि युवैवेह विनश्यन्वसुमान्नरः।
दरिद्रश्च परिक्लिष्टः शतवर्षो जरान्वितः॥ 12-27-27(65711)
अकिञ्चनाश्च दृश्यन्ते पुरुषाश्चिरजीविनः।
समृद्धे च कुले जाता विनश्यन्ति पतङ्गवत्॥ 12-27-28(65712)
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते।
दरिद्राणां तु भूयिष्ठं काष्ठमश्मा हि जीर्यते॥ 12-27-29(65713)
अहमेतत्करोमीति मन्यते कालनोदितः।
यद्यदिष्टमसंतोषाहुरात्मा पापमाचरेत्॥ 12-27-30(65714)
मृगयाक्षाः स्त्रियः पानं प्रसङ्गा निन्दिता बुधैः।
दृश्यन्ते पुरुषाश्चात्र संप्रयुक्ता बहुश्रुताः॥ 12-27-31(65715)
इति कालेन सर्वार्थानीप्सितानीप्सितानिह।
स्पृशन्ति सर्वभूतानि निमित्तं नोपलभ्यते॥ 12-27-32(65716)
वायुमाकाशमग्निं च चन्द्रादित्यावहः क्षपे।
ज्योतींषि सरितः शैलान्कः करोति बिभतिं च॥ 12-27-33(65717)
शीतमुष्णं तथा वर्षं कालेन परिवर्तते।
एवमेव मनुष्याणां सुखदुःखे नरर्षभ॥ 12-27-34(65718)
नौषधानि न शस्त्राणि न होमा न पुनर्जपाः।
त्रायन्ते मृत्युनोपेतं जरया चापि मानवम्॥ 12-27-35(65719)
यथा काष्ठं च काष्ठं च समेयातां महोदधौ।
समेत्य च व्यपेयातां तद्वद्भूतसमागमः॥ 12-27-36(65720)
ये च निष्परुषैरुक्तगीतवाद्यैरुपस्थिताः।
ये चानाथाः परान्नादाः कालस्तेषु समक्रियः॥ 12-27-37(65721)
मातापितृसहस्राणि पुत्रदारशतानि च।
संसारेष्वनुभूतानि कस्य ते कस्य वा वयम्॥ 12-27-38(65722)
नैवास्य कश्चिद्भविता नायं भवति कस्यचित्।
पथि संगतमेवेदं दारबन्धुसुहृज्जनैः॥ 12-27-39(65723)
क्वासे क्व च गमिष्यामि कोऽन्वहं किमिहास्थितः।
कस्मात्किमनुशोचेयमित्येवं स्थापयेन्मनः॥ 12-27-40(65724)
अनित्ये प्रियसंवासे संसारे चक्रवद्गतौ।
पथि संगतमेवैतद्धाता माता पिता सखा॥ 12-27-41(65725)
न दृष्टपूर्वं प्रत्यक्षं परलोकं विदुर्बुधाः।
आगमांस्त्वनतिक्रम्य श्रद्धातव्यं बुभूषता॥ 12-27-42(65726)
कुर्वीत पितृदैवत्यं धर्म्याणि च समाचरेत्।
यजेच्च विद्वान्विधिवत्रिवर्गं चाप्युपाचरेत्॥ 12-27-43(65727)
सन्निमज्जेज्जगदिदं गम्भीरे कालसागरे।
जरामृत्युमहाग्राहे न कश्चिदवबुध्यते॥ 12-27-44(65728)
आयुर्वेदमधीयानाः केवलं सपरिग्रहाः।
दृश्यन्ते बहवो वैद्या व्याधिभिः समबिप्लुताः॥ 12-27-45(65729)
ते पिबन्तः कषायांश्च सर्पीषि विविधानि च।
न मृत्युमतिवर्तन्ते वेलामिव महोदधिः॥ 12-27-46(65730)
रसायनविदश्चैव सुप्रयुक्तरसायनाः।
दृश्यन्ते जरया भग्ना नागा नागैरिवोत्तमैः॥ 12-27-47(65731)
तथैव तपसोपेताः स्वाध्यायाध्ययने रताः।
दातारो यज्ञशीलाश्च न तरन्ति जरान्तकौ॥ 12-27-48(65732)
न ह्यहानि निवर्तन्ते न मासा न पुनः समाः।
जातानां सर्वभूतानां न पुनर्वै समागमः॥ 12-27-49(65733)
सोऽयं विपुलमध्वानं कालेन ध्रुवमध्रुवः।
स्रोतसैव समभ्येति सर्वभूतनिषेवितम्॥ 12-27-50(65734)
देहो वा जीविताद्व्येति देही वाऽप्येति देहतः।
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः॥ 12-27-51(65735)
नायमत्यन्तसंवासो लभ्यते जातु केनचित्।
अपि स्वेन शरीरेण किमुतान्येन केनचित्॥ 12-27-52(65736)
क्वनु तेऽद्य पिता राजन्क्वनु तेऽद्य पितामहाः।
न त्वं पश्यसि तानद्य न त्वां पश्यन्ति तेऽनघ॥ 12-27-53(65737)
न चैव पुरुषो द्रष्टा स्वर्गस्य नरकस्य च।
आगमस्तु सतां चक्षुर्नृपते तमिहाचर॥ 12-27-54(65738)
चरितब्रह्मचर्यो हि प्रजायेत यजेत च।
पितृदेवमनुष्याणामानृण्यादनसूयकः॥ 12-27-55(65739)
स यज्ञशीलः प्रजने निविष्टः
प्राग्ब्रह्मचारी प्रविभक्तभैक्षः।
आराधयेत्स्वर्गमिमं च लोकं
परं च मुक्त्वा हृदयव्यलीकम्॥ 12-27-56(65740)
सम्यक्स्वधर्मं चरतो नृपस्य
द्रव्याणि चाभ्याहरतो यथावत्।
प्रवृद्धचक्रस्य यशोऽभिवर्धते
सर्वेषु लोकेषु चराचरेषु॥ 12-27-57(65741)
इत्येवमाकर्ण्य विदेहराजो
वाक्यं समग्रं परिपूर्णहेतु।
अश्मानमामन्त्र्य विशुद्धबुद्धि
र्ययौ गृहं स्वं प्रति शान्तशोकः॥ 12-27-58(65742)
तथा त्वमप्यद्य विमुच्य शोक
मुत्तिष्ठ शक्रोपम हर्षमेहि।
क्षात्रेण धर्मेण मही जिता ते
तां भुङ्क्ष्व कुन्तीसुत मावमंस्थाः॥ ॥ 12-27-59(65743)
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि सप्तविंशोऽध्यायः॥
Mahabharata - Shanti Parva - Chapter Footnotes
12-27-1 प्राणानभ्युत्सिसृक्षत इति झ. पाठः। तत्र अभ्युत्सिसृक्षतः त्यक्तुमिच्छत इत्यर्थः॥ 12-27-5 आत्मानं देहम्। उत्पन्नमनु अनन्तरं अव्यवधानेनैव॥ 12-27-7 प्रसिच्यते क्लिन्नं श्लथं भवतीत्यर्थः॥ 12-27-8 भोगान् भोग्यार्थान् धनादीन् विसृज्य आदाचौर्यं साधु हितम्॥ 12-27-9 असांप्रतमयुक्तम्। लुब्धा व्याधा॥ 12-27-10 वर्षशतात् परेण ऊर्ध्वम्॥ 12-27-11 तेषां दारिद्र्योत्थानभैषज्यं प्रतीकारम्॥ 12-27-13 संस्पर्शजानि विषयसङ्गजानि॥ 12-27-17 तेऽर्था जरादयः पदार्थाः। ततोऽन्यथाऽजरत्वादिरूपेण ये मनुष्यस्य काङ्क्षिता इष्टाः॥ 12-27-18 विधानमदृष्टम्॥ 12-27-19 प्राप्तिर्लाभो व्यायामः श्रमः। अलाभ इतियावत्। तयोर्योगः प्रतिष्ठितं विधानमित्यनुषज्यते॥ 12-27-20 फलस्था गन्धादयो निवर्तन्ते पूर्वेपूर्वे उत्तरेउत्तरे उपयान्ति तथैव सुखादीनि अप्रत्याख्येयानि अनुसृत्य वर्तते विद्वान्॥ 12-27-25 बुभुक्षाः क्षुत्प्रभृतयः॥ 12-27-31 प्रसङ्गा युद्धविवादादयः। क्षत्र मृगयादौ॥ 12-27-37 उपस्थिताः सेविताः। कालो मृत्युः। ये चैव पुरुषाः स्त्रीभिर्गीतवाद्यैरुपस्थिता इति झ. पाठः॥ 12-27-38 संसारेषु व्यतीतेषु तानि तेषु तदा तदेति ड. थ. पाठः॥ 12-27-40 स्थापयेद्विचारे इति शेषः॥ 12-27-47 नागा गजाः। उत्तमैर्वलिष्ठैः॥ 12-27-52 संवासः सहावस्थानम्॥ 12-27-55 प्रजायेत पुत्रादीनुत्पादयेत्। आनृण्याद्धेतोः॥ 12-27-56 प्रजने प्रजोत्पादने। हृदयव्यलीकं हृत्स्थमप्रियम्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|